ब्रह्मणस्पति सूक्तम्
ब्रह्मणस्पति सूक्तम् -
(ऋ|वे|२|२३|१)
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥
(ऋ|वे|१|१८|१)
सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र᳚ह्मणस्पते ।
क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥ १
यो रे॒वान् यो अ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः ।
स न॑: सिषक्तु॒ यस्तु॒रः ॥ २
मा न॒: शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य ।
रक्षा᳚ णो ब्रह्मणस्पते ॥ ३
स घा᳚ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पति॑: ।
सोमो᳚ हि॒नोति॒ मर्त्य᳚म् ॥ ४
त्वं तं ब्र᳚ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य᳚म् ।
दक्षि॑णा पा॒त्वंह॑सः ॥ ५
(ऋ|वे|१|४०|१)
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे ।
उप॒ प्र य᳚न्तु म॒रुत॑: सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा᳚ ॥ ६
त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने᳚ हि॒ते ।
सु॒वीर्यं᳚ मरुत॒ आ स्वश्व्यं॒ दधी᳚त॒ यो व॑ आच॒के ॥ ७
प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये᳚तु सू॒नृता᳚ ।
अच्छा᳚ वी॒रं नर्यं᳚ प॒ङ्क्तिरा᳚धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥ ८
यो वा॒घते॒ ददा᳚ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रव॑: ।
तस्मा॒ इळां᳚ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हस᳚म् ॥ ९
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं᳚ वदत्यु॒क्थ्य᳚म् ।
यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां᳚सि चक्रि॒रे ॥ १०
तमिद्वो᳚चेमा वि॒दथे॑षु शं॒भुवं॒ मन्त्रं᳚ देवा अने॒हस᳚म् ।
इ॒मां च॒ वाचं᳚ प्रति॒हर्य॑था नरो॒ विश्वे᳚द्वा॒मा वो᳚ अश्नवत् ॥ ११
को दे᳚व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् ।
प्रप्र॑ दा॒श्वान्प॒स्त्या᳚भिरस्थितान्त॒र्वाव॒त् क्षयं᳚ दधे ॥ १२
उप॑ क्ष॒त्रं पृ᳚ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे ।
नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे᳚ अस्ति व॒ज्रिण॑: ॥ १३
(ऋ|वे|२|२३|१)
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥ १४
दे॒वाश्चि॑त्ते असुर्य॒ प्रचे॑तसो॒ बृह॑स्पते य॒ज्ञियं᳚ भा॒गमा᳚नशुः ।
उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे᳚षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ॥ १५
आ वि॒बाध्या᳚ परि॒राप॒स्तमां᳚सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि ।
बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं᳚ गोत्र॒भिदं᳚ स्व॒र्विद᳚म् ॥ १६
सु॒नी॒तिभि॑र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो᳚ अश्नवत् ।
ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत् ते᳚ महित्व॒नम् ॥ १७
न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा᳚तयस्तितिरु॒र्न द्व॑या॒विन॑: ।
विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा᳚धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥ १८
त्वं नो᳚ गो॒पाः प॑थि॒कृद्वि॑चक्ष॒णस्तव॑ व्र॒ताय॑ म॒तिभि॑र्जरामहे ।
बृह॑स्पते॒ यो नो᳚ अ॒भि ह्वरो᳚ द॒धे स्वा तं म॑र्मर्तु दु॒च्छुना॒ हर॑स्वती ॥ १९
उ॒त वा॒ यो नो᳚ म॒र्चया॒दना᳚गसोऽराती॒वा मर्त॑: सानु॒को वृक॑: ।
बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो᳚ अ॒स्यै दे॒ववी॑तये कृधि ॥ २०
त्रा॒तारं᳚ त्वा त॒नूनां॑ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् ।
बृह॑स्पते देव॒निदो॒ नि ब॑र्हय॒ मा दु॒रेवा॒ उत्त॑रं सु॒म्नमुन्न॑शन् ॥ २१
त्वया᳚ व॒यं सु॒वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि ।
या नो᳚ दू॒रे त॒ळितो॒ या अरा᳚तयो॒ऽभि सन्ति॑ जं॒भया॒ ता अ॑न॒प्नस॑: ॥ २२
त्वया᳚ व॒यमु॑त्त॒मं धी᳚महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा ।
मा नो᳚ दु॒:शंसो᳚ अभिदि॒प्सुरी॑शत॒ प्र सु॒शंसा᳚ म॒तिभि॑स्तारिषीमहि ॥ २३
अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः ।
असि॑ स॒त्य ऋ॑ण॒या ब्र᳚ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी᳚ळुह॒र्षिण॑: ॥ २४
अदे᳚वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां᳚सति ।
बृह॑स्पते॒ मा प्रण॒क् तस्य॑ नो व॒धो नि क᳚र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ॥ २५
भरे॑षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे᳚षु॒ सनि॑ता॒ धनं᳚धनम् ।
विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒ ३ मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथा᳚ँ इव ॥ २६
तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा᳚ नि॒दे द॑धि॒रे दृ॒ष्टवी᳚र्यम् ।
आ॒विस्तत् कृ॑ष्व॒ यदस॑त् त उ॒क्थ्यं १ बृह॑स्पते॒ वि प॑रि॒रापो᳚ अर्दय ॥ २७
बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने᳚षु ।
यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥ २८
मा न॑: स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो᳚ रि॒पवोऽन्ने᳚षु जागृ॒धुः ।
आ दे॒वाना॒मोह॑ते॒ वि व्रयो᳚ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो᳚ विदुः ॥ २९
विश्वे᳚भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्न॑:साम्नः क॒विः ।
स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ॥ ३०
तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां᳚ गो॒त्रमु॒दसृ॑जो॒ यद᳚ङ्गिरः ।
इन्द्रे॑ण यु॒जा तम॑सा॒ परी᳚वृतं॒ बृह॑स्पते॒ निर॒पामौ᳚ब्जो अर्ण॒वम् ॥ ३१
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा᳚: ॥ ३२
(ऋ|वे|२|२४|१)
सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा ।
यथा᳚ नो मी॒ढ्वान्त्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑ध॒: सोत नो᳚ म॒तिम् ॥ ३३
यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि ।
प्राच्या᳚वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मन्तं॒ वि पर्व॑तम् ॥ ३४
तद्दे॒वानां᳚ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन् दृ॒ळहाव्र॑दन्त वीळि॒ता ।
उद्गा आ᳚ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू᳚ह॒त्तमो॒ व्य॑चक्षय॒त् स्व॑: ॥ ३५
अश्मा᳚स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् ।
तमे॒व विश्वे᳚ पपिरे स्व॒र्दृशो᳚ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् ॥ ३६
सना॒ ता का चि॒द्भुव॑ना॒ भवी᳚त्वा मा॒द्भिः श॒रद्भि॒र्दुरो᳚ वरन्त वः ।
अय॑तन्ता चरतो अ॒न्यद᳚न्य॒दिद्या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पति॑: ॥ ३७
अ॒भि॒नक्ष᳚न्तो अ॒भि ये तमा᳚न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा᳚ हि॒तम् ।
ते वि॒द्वांस॑: प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्तदुदी᳚युरा॒विश॑म् ॥ ३८
ऋ॒तावा᳚नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो᳚ म॒हस्प॒थः ।
ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकि॒: षो अ॒स्त्यर॑णो ज॒हुर्हि त᳚म् ॥ ३९
ऋ॒तज्ये᳚न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना ।
तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥ ४०
स सं᳚न॒यः स वि॑न॒यः पु॒रोहि॑त॒: स सुष्टु॑त॒: स यु॒धि ब्रह्म॑ण॒स्पति॑: ।
चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनाऽऽदित्सूर्य॑स्तपति तप्य॒तुर्वृथा᳚ ॥ ४१
वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना᳚वतो॒ बृह॒स्पते᳚: सुवि॒दत्रा॑णि॒ राध्या॑ ।
इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना᳚ उ॒भये᳚ भुञ्ज॒ते विश॑: ॥ ४२
योऽव॑रे वृ॒जने᳚ वि॒श्वथा᳚ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ ।
स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पति॑: ॥ ४३
विश्वं᳚ स॒त्यं म॑घवाना यु॒वोरि॒दाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा॑म् ।
अच्छे᳚न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे᳚व वा॒जिना᳚ जिगातम् ॥ ४४
उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो᳚ भरते म॒ती धना᳚ ।
वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा᳚द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पति॑: ॥ ४५
ब्रह्म॑ण॒स्पते᳚रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा᳚ करिष्य॒तः ।
यो गा उ॒दाज॒त्स दि॒वे वि चा᳚भजन् म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ॥ ४६
ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚ रा॒यः स्या᳚म र॒थ्यो॒ ३ वय॑स्वतः ।
वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा᳚नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् ॥ ४७
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीरा᳚: ॥ ४८
(ऋ|वे|२|२५|१)
इन्धा᳚नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र᳚ह्मा शूशुवद्रा॒तह᳚व्य॒ इत् ।
जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ ४९
वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी᳚ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना᳚ ।
तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ ५०
सिन्धु॒र्न क्षोद॒: शिमी᳚वाँ ऋघाय॒तो वृषे᳚व॒ वध्रीं᳚र॒भि व॒ष्ट्योज॑सा ।
अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ ५१
तस्मा᳚ अर्षन्ति दि॒व्या अ॑स॒श्चत॒: स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति ।
अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ ५२
तस्मा॒ इद्विश्वे॑ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ ।
दे॒वानां᳚ सु॒म्ने सु॒भग॒: स ए᳚धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ ५३
(ऋ|वे|२|२६|१)
ऋ॒जुरिच्छंसो᳚ वनवद्वनुष्य॒तो दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् ।
सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ॥ ५४
यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मन॑: कृणुष्व वृत्र॒तूर्ये᳚ ।
ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥ ५५
स इज्जने᳚न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं᳚ भरते॒ धना॒ नृभि॑: ।
दे॒वानां॒ यः पि॒तर॑मा॒विवा᳚सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ॥ ५६
यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त् प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पति॑: ।
उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥ ५७
(ऋ|वे|७|९७|३)
तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भि॑: सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं᳚ गृणीषे ।
इन्द्रं॒ श्लोको॒ महि॒ दैव्य॑: सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा᳚ ॥ ५८
(ऋ|वे|७|९७|९)
इ॒यं वां᳚ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ अकारि ।
अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ॥ ५९
(ऋ|वे|१०|१५५|२)
च॒त्तो इ॒तश्च॒त्तामुत॒: सर्वा᳚ भ्रू॒णान्या॒रुषी᳚ ।
अ॒रा॒य्यं᳚ ब्रह्मणस्पते॒ तीक्ष्ण॑शृङ्गोदृ॒षन्नि॑हि ॥ ६०
अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धो᳚: पा॒रे अ॑पूरु॒षम् ।
तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ॥ ६१
(ऋ|वे|खि|१०|१२८|१२)
अग्नि॒र्येन॑ वि॒राज॑ति सू॒र्यो᳚ येन वि॒राज॑ति ।
वि॒राज्ये᳚न विरा॒जति तेना॒स्मान् ब्रह्म॑णस्पते वि॒रा॑ज समिधं॒ कु॑रु ॥ ६२
(ऋ|वे|६|७५|१७)
यत्र॑ बा॒णाः स॒म्पत᳚न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
तत्रा᳚ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑ति॒: शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥ ६३
(ऋ|वे|१०|१६४|४)
यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा᳚मसि ।
प्रचे᳚ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥ ६४
(ऋ|वे|१०|११२|९)
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥ ६५
(ऋ|वे|१०|६०|१२)
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे॑ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ॥ ६६
ओं शान्ति॒: शान्ति॒: शान्ति॑: ।
Brahmanaspati Suktam –
(ṛ|ve|2|23|1)
ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe
ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱
ā na̍: śṛ̱ṇvannū̱tibhi̍: sīda̱ sāda̍nam ||
(ṛ|ve|1|18|1)
so̱māna̱ṃ svara̍ṇaṃ kṛṇu̱hi bra̎hmaṇaspate |
ka̱kṣīva̍nta̱ṃ ya au̍śi̱jaḥ || 1
yo re̱vān yo a̍mīva̱hā va̍su̱vit pu̍ṣṭi̱vardha̍naḥ |
sa na̍: siṣaktu̱ yastu̱raḥ || 2
mā na̱: śaṃso̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅ martya̍sya |
rakṣā̎ ṇo brahmaṇaspate || 3
sa ghā̎ vī̱ro na ri̍ṣyati̱ yamindro̱ brahma̍ṇa̱spati̍: |
somo̎ hi̱noti̱ martya̎m || 4
tvaṃ taṃ bra̎hmaṇaspate̱ soma̱ indra̍śca̱ martya̎m |
dakṣi̍ṇā pā̱tvaṃha̍saḥ || 5
(ṛ|ve|1|40|1)
utti̍ṣṭha brahmaṇaspate deva̱yanta̍stvemahe |
upa̱ pra ya̎ntu ma̱ruta̍: su̱dāna̍va̱ indra̍ prā̱śūrbha̍vā̱ sacā̎ || 6
tvāmiddhi sa̍hasasputra̱ martya̍ upabrū̱te dhane̎ hi̱te |
su̱vīrya̎ṃ maruta̱ ā svaśvya̱ṃ dadhī̎ta̱ yo va̍ āca̱ke || 7
praitu̱ brahma̍ṇa̱spati̱: pra de̱vye̎tu sū̱nṛtā̎ |
acchā̎ vī̱raṃ narya̎ṃ pa̱ṅktirā̎dhasaṃ de̱vā ya̱jñaṃ na̍yantu naḥ || 8
yo vā̱ghate̱ dadā̎ti sū̱nara̱ṃ vasu̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍: |
tasmā̱ il̤ā̎ṃ su̱vīrā̱mā ya̍jāmahe su̱pratū̍rtimane̱hasa̎m || 9
pra nū̱naṃ brahma̍ṇa̱spati̱rmantra̎ṃ vadatyu̱kthya̎m |
yasmi̱nnindro̱ varu̍ṇo mi̱tro a̍rya̱mā de̱vā okā̎ṃsi cakri̱re || 10
tamidvo̎cemā vi̱dathe̍ṣu śa̱ṃbhuva̱ṃ mantra̎ṃ devā ane̱hasa̎m |
i̱māṃ ca̱ vāca̎ṃ prati̱harya̍thā naro̱ viśve̎dvā̱mā vo̎ aśnavat || 11
ko de̎va̱yanta̍maśnava̱jjana̱ṃ ko vṛ̱ktaba̍rhiṣam |
prapra̍ dā̱śvānpa̱styā̎bhirasthitānta̱rvāva̱t kṣaya̎ṃ dadhe || 12
upa̍ kṣa̱traṃ pṛ̎ñcī̱ta hanti̱ rāja̍bhirbha̱ye ci̍tsukṣi̱tiṃ da̍dhe |
nāsya̍ va̱rtā na ta̍ru̱tā ma̍hādha̱ne nārbhe̎ asti va̱jriṇa̍: || 13
(ṛ|ve|2|23|1)
ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱ ā na̍: śṛ̱ṇvannū̱tibhi̍: sīda̱ sāda̍nam || 14
de̱vāści̍tte asurya̱ prace̍taso̱ bṛha̍spate ya̱jñiya̎ṃ bhā̱gamā̎naśuḥ |
u̱srā i̍va̱ sūryo̱ jyoti̍ṣā ma̱ho viśve̎ṣā̱mijja̍ni̱tā brahma̍ṇāmasi || 15
ā vi̱bādhyā̎ pari̱rāpa̱stamā̎ṃsi ca̱ jyoti̍ṣmanta̱ṃ ratha̍mṛ̱tasya̍ tiṣṭhasi |
bṛha̍spate bhī̱mama̍mitra̱dambha̍naṃ rakṣo̱haṇa̎ṃ gotra̱bhida̎ṃ sva̱rvida̎m || 16
su̱nī̱tibhi̍rnayasi̱ trāya̍se̱ jana̱ṃ yastubhya̱ṃ dāśā̱nna tamaṃho̎ aśnavat |
bra̱hma̱dviṣa̱stapa̍no manyu̱mīra̍si̱ bṛha̍spate̱ mahi̱ tat te̎ mahitva̱nam || 17
na tamaṃho̱ na du̍ri̱taṃ kuta̍śca̱na nārā̎tayastitiru̱rna dva̍yā̱vina̍: |
viśvā̱ ida̍smāddhva̱raso̱ vi bā̎dhase̱ yaṃ su̍go̱pā rakṣa̍si brahmaṇaspate || 18
tvaṃ no̎ go̱pāḥ pa̍thi̱kṛdvi̍cakṣa̱ṇastava̍ vra̱tāya̍ ma̱tibhi̍rjarāmahe |
bṛha̍spate̱ yo no̎ a̱bhi hvaro̎ da̱dhe svā taṃ ma̍rmartu du̱cchunā̱ hara̍svatī || 19
u̱ta vā̱ yo no̎ ma̱rcayā̱danā̎gaso’rātī̱vā marta̍: sānu̱ko vṛka̍: |
bṛha̍spate̱ apa̱ taṃ va̍rtayā pa̱thaḥ su̱gaṃ no̎ a̱syai de̱vavī̍taye kṛdhi || 20
trā̱tāra̎ṃ tvā ta̱nūnā̍ṃ havāma̱he’va̍spartaradhiva̱ktāra̍masma̱yum |
bṛha̍spate deva̱nido̱ ni ba̍rhaya̱ mā du̱revā̱ utta̍raṃ su̱mnamunna̍śan || 21
tvayā̎ va̱yaṃ su̱vṛdhā̍ brahmaṇaspate spā̱rhā vasu̍ manu̱ṣyā da̍dīmahi |
yā no̎ dū̱re ta̱l̤ito̱ yā arā̎tayo̱’bhi santi̍ ja̱ṃbhayā̱ tā a̍na̱pnasa̍: || 22
tvayā̎ va̱yamu̍tta̱maṃ dhī̎mahe̱ vayo̱ bṛha̍spate̱ papri̍ṇā̱ sasni̍nā yu̱jā |
mā no̎ du̱:śaṃso̎ abhidi̱psurī̍śata̱ pra su̱śaṃsā̎ ma̱tibhi̍stāriṣīmahi || 23
a̱nā̱nu̱do vṛ̍ṣa̱bho jagmi̍rāha̱vaṃ niṣṭa̍ptā̱ śatru̱ṃ pṛta̍nāsu sāsa̱hiḥ |
asi̍ sa̱tya ṛ̍ṇa̱yā bra̎hmaṇaspata u̱grasya̍ ciddami̱tā vī̎l̤uha̱rṣiṇa̍: || 24
ade̎vena̱ mana̍sā̱ yo ri̍ṣa̱ṇyati̍ śā̱sāmu̱gro manya̍māno̱ jighā̎ṃsati |
bṛha̍spate̱ mā praṇa̱k tasya̍ no va̱dho ni ka̎rma ma̱nyuṃ du̱reva̍sya̱ śardha̍taḥ || 25
bhare̍ṣu̱ havyo̱ nama̍sopa̱sadyo̱ gantā̱ vāje̎ṣu̱ sani̍tā̱ dhana̎ṃdhanam |
viśvā̱ ida̱ryo a̍bhidi̱psvo̱ 3 mṛdho̱ bṛha̱spati̱rvi va̍varhā̱ rathā̎m̐ iva || 26
teji̍ṣṭhayā tapa̱nī ra̱kṣasa̍stapa̱ ye tvā̎ ni̱de da̍dhi̱re dṛ̱ṣṭavī̎ryam |
ā̱vistat kṛ̍ṣva̱ yadasa̍t ta u̱kthyaṃ 1 bṛha̍spate̱ vi pa̍ri̱rāpo̎ ardaya || 27
bṛha̍spate̱ ati̱ yada̱ryo arhā̍ddyu̱madvi̱bhāti̱ kratu̍ma̱jjane̎ṣu |
yaddī̱daya̱cchava̍sa ṛtaprajāta̱ tada̱smāsu̱ dravi̍ṇaṃ dhehi ci̱tram || 28
mā na̍: ste̱nebhyo̱ ye a̱bhi dru̱haspa̱de ni̍rā̱miṇo̎ ri̱pavo’nne̎ṣu jāgṛ̱dhuḥ |
ā de̱vānā̱moha̍te̱ vi vrayo̎ hṛ̱di bṛha̍spate̱ na pa̱raḥ sāmno̎ viduḥ || 29
viśve̎bhyo̱ hi tvā̱ bhuva̍nebhya̱spari̱ tvaṣṭāja̍na̱tsāmna̍:sāmnaḥ ka̱viḥ |
sa ṛ̍ṇa̱cidṛ̍ṇa̱yā brahma̍ṇa̱spati̍rdru̱ho ha̱ntā ma̱ha ṛ̱tasya̍ dha̱rtari̍ || 30
tava̍ śri̱ye vya̍jihīta̱ parva̍to̱ gavā̎ṃ go̱tramu̱dasṛ̍jo̱ yada̎ṅgiraḥ |
indre̍ṇa yu̱jā tama̍sā̱ parī̎vṛta̱ṃ bṛha̍spate̱ nira̱pāmau̎bjo arṇa̱vam || 31
brahma̍ṇaspate̱ tvama̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṃ ca jinva |
viśva̱ṃ tadbha̱draṃ yadava̎nti de̱vā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̎: || 32
(ṛ|ve|2|24|1)
semāma̍viḍḍhi̱ prabhṛ̍ti̱ṃ ya īśi̍ṣe̱’yā vi̍dhema̱ nava̍yā ma̱hā gi̱rā |
yathā̎ no mī̱ḍhvāntstava̍te̱ sakhā̱ tava̱ bṛha̍spate̱ sīṣa̍dha̱: sota no̎ ma̱tim || 33
yo nantvā̱nyana̍ma̱nnyoja̍so̱tāda̍rdarma̱nyunā̱ śamba̍rāṇi̱ vi |
prācyā̎vaya̱dacyu̍tā̱ brahma̍ṇa̱spati̱rā cāvi̍śa̱dvasu̍manta̱ṃ vi parva̍tam || 34
tadde̱vānā̎ṃ de̱vata̍māya̱ kartva̱maśra̍thnan dṛ̱l̤ahāvra̍danta vīl̤i̱tā |
udgā ā̎ja̱dabhi̍na̱dbrahma̍ṇā va̱lamagū̎ha̱ttamo̱ vya̍cakṣaya̱t sva̍: || 35
aśmā̎syamava̱taṃ brahma̍ṇa̱spati̱rmadhu̍dhārama̱bhi yamoja̱sātṛ̍ṇat |
tame̱va viśve̎ papire sva̱rdṛśo̎ ba̱hu sā̱kaṃ si̍sicu̱rutsa̍mu̱driṇa̎m || 36
sanā̱ tā kā ci̱dbhuva̍nā̱ bhavī̎tvā mā̱dbhiḥ śa̱radbhi̱rduro̎ varanta vaḥ |
aya̍tantā carato a̱nyada̎nya̱didyā ca̱kāra̍ va̱yunā̱ brahma̍ṇa̱spati̍: || 37
a̱bhi̱nakṣa̎nto a̱bhi ye tamā̎na̱śurni̱dhiṃ pa̍ṇī̱nāṃ pa̍ra̱maṃ guhā̎ hi̱tam |
te vi̱dvāṃsa̍: prati̱cakṣyānṛ̍tā̱ puna̱ryata̍ u̱ āya̱ntadudī̎yurā̱viśa̍m || 38
ṛ̱tāvā̎naḥ prati̱cakṣyānṛ̍tā̱ puna̱rāta̱ ā ta̍sthuḥ ka̱vayo̎ ma̱haspa̱thaḥ |
te bā̱hubhyā̍ṃ dhami̱tama̱gnimaśma̍ni̱ naki̱: ṣo a̱styara̍ṇo ja̱hurhi ta̎m || 39
ṛ̱tajye̎na kṣi̱preṇa̱ brahma̍ṇa̱spati̱ryatra̱ vaṣṭi̱ pra tada̍śnoti̱ dhanva̍nā |
tasya̍ sā̱dhvīriṣa̍vo̱ yābhi̱rasya̍ti nṛ̱cakṣa̍so dṛ̱śaye̱ karṇa̍yonayaḥ || 40
sa sa̎ṃna̱yaḥ sa vi̍na̱yaḥ pu̱rohi̍ta̱: sa suṣṭu̍ta̱: sa yu̱dhi brahma̍ṇa̱spati̍: |
cā̱kṣmo yadvāja̱ṃ bhara̍te ma̱tī dhanā”ditsūrya̍stapati tapya̱turvṛthā̎ || 41
vi̱bhu pra̱bhu pra̍tha̱maṃ me̱hanā̎vato̱ bṛha̱spate̎: suvi̱datrā̍ṇi̱ rādhyā̍ |
i̱mā sā̱tāni̍ ve̱nyasya̍ vā̱jino̱ yena̱ janā̎ u̱bhaye̎ bhuñja̱te viśa̍: || 42
yo’va̍re vṛ̱jane̎ vi̱śvathā̎ vi̱bhurma̱hāmu̍ ra̱ṇvaḥ śava̍sā va̱vakṣi̍tha |
sa de̱vo de̱vānprati̍ paprathe pṛ̱thu viśvedu̱ tā pa̍ri̱bhūrbrahma̍ṇa̱spati̍: || 43
viśva̎ṃ sa̱tyaṃ ma̍ghavānā yu̱vori̱dāpa̍śca̱na pra mi̍nanti vra̱taṃ vā̍m |
acche̎ndrābrahmaṇaspatī ha̱virno’nna̱ṃ yuje̎va vā̱jinā̎ jigātam || 44
u̱tāśi̍ṣṭhā̱ anu̍ śṛṇvanti̱ vahna̍yaḥ sa̱bheyo̱ vipro̎ bharate ma̱tī dhanā̎ |
vī̱l̤u̱dveṣā̱ anu̱ vaśa̍ ṛ̱ṇamā̎da̱diḥ sa ha̍ vā̱jī sa̍mi̱the brahma̍ṇa̱spati̍: || 45
brahma̍ṇa̱spate̎rabhavadyathāva̱śaṃ sa̱tyo ma̱nyurmahi̱ karmā̎ kariṣya̱taḥ |
yo gā u̱dāja̱tsa di̱ve vi cā̎bhajan ma̱hīva̍ rī̱tiḥ śava̍sāsara̱tpṛtha̍k || 46
brahma̍ṇaspate su̱yama̍sya vi̱śvahā̎ rā̱yaḥ syā̎ma ra̱thyo̱ 3 vaya̍svataḥ |
vī̱reṣu̍ vī̱rām̐ upa̍ pṛṅdhi na̱stvaṃ yadīśā̎no̱ brahma̍ṇā̱ veṣi̍ me̱ hava̍m || 47
brahma̍ṇaspate̱ tvama̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṃ ca jinva |
viśva̱ṃ tadbha̱draṃ yadava̎nti de̱vā bṛ̱hadva̍dema vi̱dathe̎ su̱vīrā̎: || 48
(ṛ|ve|2|25|1)
indhā̎no a̱gniṃ va̍navadvanuṣya̱taḥ kṛ̱tabra̎hmā śūśuvadrā̱taha̎vya̱ it |
jā̱tena̍ jā̱tamati̱ sa pra sa̍rsṛte̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 49
vī̱rebhi̍rvī̱rānva̍navadvanuṣya̱to gobhī̎ ra̱yiṃ pa̍pratha̱dbodha̍ti̱ tmanā̎ |
to̱kaṃ ca̱ tasya̱ tana̍yaṃ ca vardhate̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 50
sindhu̱rna kṣoda̱: śimī̎vām̐ ṛghāya̱to vṛṣe̎va̱ vadhrī̎ṃra̱bhi va̱ṣṭyoja̍sā |
a̱gneri̍va̱ prasi̍ti̱rnāha̱ varta̍ve̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 51
tasmā̎ arṣanti di̱vyā a̍sa̱ścata̱: sa satva̍bhiḥ pratha̱mo goṣu̍ gacchati |
ani̍bhṛṣṭataviṣirha̱ntyoja̍sā̱ yaṃya̱ṃ yuja̍ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 52
tasmā̱ idviśve̍ dhunayanta̱ sindha̱vo’cchi̍drā̱ śarma̍ dadhire pu̱rūṇi̍ |
de̱vānā̎ṃ su̱mne su̱bhaga̱: sa e̎dhate̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 53
(ṛ|ve|2|26|1)
ṛ̱juricchaṃso̎ vanavadvanuṣya̱to de̎va̱yannidade̎vayantama̱bhya̍sat |
su̱prā̱vīridva̍navatpṛ̱tsu du̱ṣṭara̱ṃ yajvedaya̍jyo̱rvi bha̍jāti̱ bhoja̍nam || 54
yaja̍sva vīra̱ pra vi̍hi manāya̱to bha̱draṃ mana̍: kṛṇuṣva vṛtra̱tūrye̎ |
ha̱viṣkṛ̍ṇuṣva su̱bhago̱ yathāsa̍si̱ brahma̍ṇa̱spate̱rava̱ ā vṛ̍ṇīmahe || 55
sa ijjane̎na̱ sa vi̱śā sa janma̍nā̱ sa pu̱trairvāja̎ṃ bharate̱ dhanā̱ nṛbhi̍: |
de̱vānā̱ṃ yaḥ pi̱tara̍mā̱vivā̎sati śra̱ddhāma̍nā ha̱viṣā̱ brahma̍ṇa̱spati̎m || 56
yo a̍smai ha̱vyairghṛ̱tava̍dbhi̱ravi̍dha̱t pra taṃ prā̱cā na̍yati̱ brahma̍ṇa̱spati̍: |
u̱ru̱ṣyatī̱maṃha̍so̱ rakṣa̍tī ri̱ṣo̱ṃ3’hości̍dasmā uru̱cakri̱radbhu̍taḥ || 57
(ṛ|ve|7|97|3)
tamu̱ jyeṣṭha̱ṃ nama̍sā ha̱virbhi̍: su̱śeva̱ṃ brahma̍ṇa̱spati̎ṃ gṛṇīṣe |
indra̱ṃ śloko̱ mahi̱ daivya̍: siṣaktu̱ yo brahma̍ṇo de̱vakṛ̍tasya̱ rājā̎ || 58
(ṛ|ve|7|97|9)
i̱yaṃ vā̎ṃ brahmaṇaspate suvṛ̱ktirbrahmendrā̎ya va̱jriṇe̎ akāri |
a̱vi̱ṣṭaṃ dhiyo̎ jigṛ̱taṃ pura̎ṃdhīrjaja̱stama̱ryo va̱nuṣā̱marā̎tīḥ || 59
(ṛ|ve|10|155|2)
ca̱tto i̱taśca̱ttāmuta̱: sarvā̎ bhrū̱ṇānyā̱ruṣī̎ |
a̱rā̱yya̎ṃ brahmaṇaspate̱ tīkṣṇa̍śṛṅgodṛ̱ṣanni̍hi || 60
a̱do yaddāru̱ plava̍te̱ sindho̎: pā̱re a̍pūru̱ṣam |
tadā ra̍bhasva durhaṇo̱ tena̍ gaccha parasta̱ram || 61
(ṛ|ve|khi|10|128|12)
agni̱ryena̍ vi̱rāja̍ti sū̱ryo̎ yena vi̱rāja̍ti |
vi̱rājye̎na virā̱jati tenā̱smān brahma̍ṇaspate vi̱rā̍ja samidha̱ṃ ku̍ru || 62
(ṛ|ve|6|75|17)
yatra̍ bā̱ṇāḥ sa̱mpata̎nti kumā̱rā vi̍śi̱khā i̍va |
tatrā̎ no̱ brahma̍ṇa̱spati̱radi̍ti̱: śarma̍ yacchatu vi̱śvāhā̱ śarma̍ yacchatu || 63
(ṛ|ve|10|164|4)
yadi̍ndra brahmaṇaspate’bhidro̱haṃ carā̎masi |
prace̎tā na āṅgira̱so dvi̍ṣa̱tāṃ pā̱tvaṃha̍saḥ || 64
(ṛ|ve|10|112|9)
ni ṣu sī̎da gaṇapate ga̱ṇeṣu̱ tvāmā̎hu̱rvipra̍tamaṃ kavī̱nām |
na ṛ̱te tvatkri̍yate̱ kiṃ ca̱nāre ma̱hāma̱rkaṃ ma̍ghavañci̱trama̍rca || 65
(ṛ|ve|10|60|12)
a̱yaṃ me̱ hasto̱ bhaga̍vāna̱yaṃ me̱ bhaga̍vattaraḥ |
a̱yaṃ me̍ vi̱śvabhe̎ṣajo̱’yaṃ śi̱vābhi̍marśanaḥ || 66
oṃ śānti̱: śānti̱: śānti̍: |
on - गुरुवार, २५ डिसेंबर, २०२५,
Filed under - धर्म शास्त्र , मंत्र शास्त्र
You can follow any responses to this entry through the RSS 2.0

कोणत्याही टिप्पण्या नाहीत:
टिप्पणी पोस्ट करा